|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.22. अध्यायः 022
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेनार्जुनंप्रति दशेन्द्रियगुणादिप्रतिपादकब्राह्मणदंपतिसंवादानुवादः॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
ब्राह्मण उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
निबोध दशहोतृणां विधानमिह यादृशम्॥ 14-22-1(93027)
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चरणौ करौ।
उपस्थं पायुरिति वाग्घोतृणि दश भामिनि॥ 14-22-2(93028)
शब्दस्पर्शौ रूपरसौ गन्धो वाक्यं क्रिया गतिः।
रेतोमूत्रपुरीषाणां त्यागो दश हवींषि च॥ 14-22-3(93029)
दिशो वायू रविश्चन्द्रः पृथ्व्यग्नी विष्णुरेव च।
इन्द्रः प्रजापतिर्मित्रमग्नयो दश भामिनि॥ 14-22-4(93030)
दशेन्द्रियाणि होतृणि हवींषि दश भामिनि।
विषया नाम समिधो हूयन्ते तु दशाग्निषु॥ 14-22-5(93031)
चित्तं स्रुवश्च वित्तं च पवित्रं ज्ञानमुत्तमम्।
सुविभक्तमिदं पूर्वं जगदासीदिति श्रुतम्॥ 14-22-6(93032)
`ततो विविक्ता वित्तासीत्सा वित्तं पर्यवेक्षते।'
सर्वमेवात्र विज्ञेयं चित्ते ज्ञानमवेक्षता।
रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत्॥ 14-22-7(93033)
शरीरभृद्गार्हपत्यस्तस्मादग्निः प्रणीयते।
मनश्चाहवनीयस्तु तस्मिन्प्रक्षिप्यते हविः॥ 14-22-8(93034)
ततो वाचस्पतिर्जज्ञे तं मनः पर्यवेक्षते।
रूपं भवति वै वक्त्रं तदनुद्रवते मनः॥ 14-22-9(93035)
ब्राह्मण्युवाच। 14-22-10x(7808)
कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत्।
मनसा चिन्तितं पूर्वं वाक्यं समभिपद्यते॥ 14-22-10(93036)
केन विज्ञानयोगेन मतिश्चित्तं समास्थिता।
समुन्नीता नाध्यगच्छत्को वै तां प्रतिबाधते॥ 14-22-11(93037)
ब्राह्मण उवाच। 14-22-12x(7809)
तन्मनस्थः पतिर्भूत्वा तस्मात्प्रेहन्निवायति।
तां मतिं मनसः प्राहुर्मनस्तस्मादपेक्षते॥ 14-22-12(93038)
प्रश्नं तु वाङ्मनसयोर्यस्मात्त्वमनुपृच्छसि।
तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम्॥ 14-22-13(93039)
उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम्।
आवयोः श्रेष्ठमाचक्ष्व च्छिन्धि नौ संशयं विभो॥ 14-22-14(93040)
मन इत्येवि भगवांस्तदा प्राह सरस्वतीम्।
अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ॥ 14-22-15(93041)
ब्राह्मण उवाच। 14-22-16x(7810)
स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम।
स्थावरं मत्सकाशे वै जङ्गमं विषये तव॥ 14-22-16(93042)
यस्तु ते विषये गच्छन्मन्त्रो वर्णः स्वरोपि वा।
तन्मनो जङ्गमं नाम तस्मादसि गरीयसी॥ 14-22-17(93043)
तस्माद्भवितुमर्हामि स्वयमभ्येत्य शोभने।
तस्मादुच्छ्वासमासाद्य प्रवक्ष्यामि सरस्वति॥ 14-22-18(93044)
प्राणापानावन्तरे यद्वाग्वै नित्यं स्म तिष्ठति।
प्रीयमाणा महाभागे विना प्राणांश्च मामपि।
प्रजापतिमुपाधावत्प्रसीद भगवन्निति॥ 14-22-19(93045)
ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः।
तस्मादुच्छ्वासमासाद्य न वाग्वदति कर्हिचित्॥ 14-22-20(93046)
घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते।
तयोरपि च घोषिण्या निर्घोर्षैव गरीयसी॥ 14-22-21(93047)
गौरिव प्रस्रवत्यर्थान्रसमुत्तमशालिनी।
सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी॥ 14-22-22(93048)
दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते।
एतयोरन्तरं पश्य सूक्ष्मयोर्यतमानयोः॥ 14-22-23(93049)
ब्राह्मण्युवाच। 14-22-24x(7811)
अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया।
किंन्नु पूर्वं तदा देवी व्याजहार सरस्वती॥ 14-22-24(93050)
ब्राह्मण उवाच। 14-22-25x(7812)
प्राणेन य सम्भवते शरीरे
प्राणादपानं प्रतिपद्यते च।
उदानभूता च विसृज्य देहं
व्यानेन सर्वं दिवमावृणोति॥ 14-22-25(93051)
ततः समाने प्रतितिष्ठतीह
इत्येव पूर्वं प्रजजल्प वागपि।
तस्मान्मनः स्थावरत्वाद्विशिष्टं
तथा देवी जङ्गमत्वाद्विशिष्टाः॥ ॥ 14-22-26(93052)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्वाविंशोऽध्यायः॥ 22 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-22-22 मासमुत्तमशालिनीति क.ट.थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|